|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.16. अध्यायः 016
Mahabharata - Drona Parva - Chapter Topics
द्रोणेन युधिष्ठिरग्रहणोद्यमे अर्जुमेन तद्भङ्गः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-16-0x(4297)(45307)
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्।
दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया॥ 7-16-1(45308)
शरा दश दिशो मुक्ता वृषसेनेन संयुगे।
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्॥ 7-16-2(45309)
तस्य दीप्ता महाबाणा विविश्चेरुः सहस्रशः।
भानोरिव महाराज घर्मकाले मरीचयः॥ 7-16-3(45310)
तेनार्दिता महाराज रथिनः सादिनस्तथा।
निपेतुरुर्व्यां सहसा वातभग्ना इव द्रुमाः॥ 7-16-4(45311)
हयौघांश्च रथौघांश्च गजौघांश्च महारथः।
अपातयद्रणे राजञ्शतशोऽथ सहस्रशः॥ 7-16-5(45312)
दृष्ट्वा तमेकं समरे विचरन्तमभीतवत्।
सहिताः सर्वराजानः परिवव्रुः समन्ततः॥ 7-16-6(45313)
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्।
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः॥ 7-16-7(45314)
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत्।
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः॥ 7-16-8(45315)
कर्णात्मजं शरव्रातैरदृश्यं चक्रुरञ्जसा।
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः॥ 7-16-9(45316)
छादयन्तो महाराज द्रौपदेयान्महारथान्।
शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव॥ 7-16-10(45317)
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः।
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः॥ 7-16-11(45318)
तद्युद्धमभवद्धोरं सुमहद्रोमहर्षणम्।
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः॥ 7-16-12(45319)
एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः।
परस्परमुदीक्षन्तः परस्परकृतागसः॥ 7-16-13(45320)
तेषां ददृशिरे कोपाद्वपूम्ष्यमिततेजसाम्।
युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम्॥ 7-16-14(45321)
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः।
बभासे स रणोद्देशः कालसूर्यैरिवोदितैः॥ 7-16-15(45322)
`प्रजानां संक्षये घोरे यथा सूर्योदयो भवेत्।
शूराणामुदयस्तद्वदासीत्पुरुषसत्तम'॥ 7-16-16(45323)
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम्।
महाबलानां बलिभिर्दानवानां यथा सुरैः॥ 7-16-17(45324)
ततो युधिष्ठिरानीकमुद्धूतार्णवनिःस्वनम्।
त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम्॥ 7-16-18(45325)
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम्।
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत॥ 7-16-19(45326)
`भारद्वाजममर्षश्च विक्रमश्च समाविशत्।
समुद्धृत्य निषङ्गाच्च धनुर्ज्यामवमृज्य च।
महाशरधनुष्पाणिर्यन्तारमिदमब्रवीत्॥ 7-16-20(45327)
सारथे याहि यत्रैष पाण्डरेण विराजता।
ध्रियमाणेन च्छेण राजा तिष्ठति धर्मराट्॥ 7-16-21(45328)
तदेतद्दीर्यते सैन्यं धार्तराष्ट्रमनेकधा।
एतत्संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम्॥ 7-16-22(45329)
न हि मामभिवर्षन्तं संयुगे तात पाण्डवाः।
मात्स्यपाञ्चालराजानः सर्वे च सहसोमकाः॥ 7-16-23(45330)
अर्जुनो मत्प्रसादाद्धि महास्त्राणि समाप्तवान्।
न मामुत्सहते तात न भीमो न च सात्यकिः॥ 7-16-24(45331)
मत्प्रसादाद्धि बीभत्सुः परमेष्वासतां गतः।
ममैवास्त्रं विजानाति धृष्टद्युम्नोऽपि पार्षतः॥ 7-16-25(45332)
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणा।
याहि सर्गं पुरस्कृत्य यशसे च जयाय च॥ 7-16-26(45333)
सञ्जय उवाच। 7-16-27x(4298)
एवं सञ्चोदितो यन्ता द्रोणमभ्यवहत्ततः॥ 7-16-27(45334)
तदाऽश्वहृदयेनाश्वानभिमन्त्र्याशु हर्षयन्।
रथेन सवरूथेन भास्वरेण विराजता॥ 7-16-28(45335)
तं करूशाश्च मात्स्याश्च चेदयश्च ससात्वताः।
पाण्डवाश्च सपाञ्चालाः सहिताः पर्यवारयन्'॥ 7-16-29(45336)
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः।
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्॥ 7-16-30(45337)
तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः।
तस्य द्रोणो धनुश्छित्वा तं द्रुतं समुपाद्रवत्॥ 7-16-31(45338)
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः।
दधार द्रोणमायान्तं वेलेव सरितां पतिम्॥ 7-16-32(45339)
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम्।
सिंहनादरवो ह्यासीत्साधुसाध्विति भाषितम्॥ 7-16-33(45340)
कुमारस्तु ततो द्रोणं सायकेन महाहवे।
विव्याधोरसि सङ्क्रुद्धः सिंहवच्च नदन्मुहुः॥ 7-16-34(45341)
संवार्य च रणे द्रोणं कुमारस्तु महाबलः।
शरैरनेकसाहस्रैः कृतहस्तो जितश्रमः॥ 7-16-35(45342)
तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्चमम्।
चक्ररक्षतं परामृद्रात्कुमारं द्विजपुङ्गवः॥ 7-16-36(45343)
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः।
तव सैन्यस्य गोप्तासीद्भारद्वाजो द्विजर्षभः॥ 7-16-37(45344)
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्।
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः॥ 7-16-38(45345)
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः।
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः॥ 7-16-39(45346)
व्यक्षोभयद्रणे योधान्यथामुख्यमभिद्रवन्।
अभ्यवर्ततं सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्॥ 7-16-40(45347)
युगन्धरस्ततो राजन्भारद्वाजं महारथम्।
वारयामास सङ्क्रुद्वं वातोद्धतमिवार्णवम्॥ 7-16-41(45348)
युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः।
युगन्धरं तु भल्लने रथनीडादपातयत्॥ 7-16-42(45349)
`तं विजित्य महातेजा भारद्वाजो महामनाः।
अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्'॥ 7-16-43(45350)
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः।
व्याघ्रदत्तश्च पाञ्चल्यः सिंहसेनश्च वीर्यवान्॥ 7-16-44(45351)
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम्।
आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून्॥ 7-16-45(45352)
व्याघ्रदत्तस्तु पाञ्चाल्यो द्रोणं विव्याध मार्गणैः।
पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः॥ 7-16-46(45353)
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम्।
प्राहसत्सहसा हृष्टस्त्रासयन्वै महारथान्॥ 7-16-47(45354)
ततो विष्फार्य नयने धनुर्ज्यामवमृज्य च।
तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत्॥ 7-16-48(45355)
ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम्।
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली॥ 7-16-49(45356)
तान्प्रमृज्य शरव्रातैः पाण्डवानां महारथान्।
युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः॥ 7-16-50(45357)
ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले।
हृतो राजेति योधानां समीपस्थे यतव्रते॥ 7-16-51(45358)
अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम्।
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति॥ 7-16-52(45359)
अस्मिन्महूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः।
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे॥ 7-16-53(45360)
एवं सञ्जल्पतां तेषां तावकानां महारथः।
आयाज्जवेन कौन्तेयो रथघोषेण नादयन्॥ 7-16-54(45361)
शोणितोदां रथावर्तां कृत्वा विशसने नदीम्।
शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम्॥ 7-16-55(45362)
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम्।
नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः॥ 7-16-56(45363)
ततः किरीटि सहसा द्रोणानीकमुपाद्रवत्।
छादयन्निषुजालेन महता मोहयन्निव॥ 7-16-57(45364)
शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम्।
नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः॥ 7-16-58(45365)
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी।
अदृश्यन्त महाराज बाणभूता इवाभवन्॥ 7-16-59(45366)
नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे।
बाणान्धकारे महति कृते गाण्डीवधन्वना॥ 7-16-60(45367)
सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते।
नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन। 7-16-61(45368)
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः।
तान्विदित्वा पुनस्त्रस्ता न युद्धमनसः परान्॥ 7-16-62(45369)
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत्।
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः॥ 7-16-63(45370)
पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः।
एं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः॥ 7-16-64(45371)
पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः॥
मसारगल्वर्कमुवर्णरूपैर्वज्रप्रवालस्फटिकैश्च मुख्यैः। 7-16-65(45372)
चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः॥ ॥ 7-16-66(45373)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे षोडशोऽध्यायः॥ 16 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-16-1 अस्त्रमायया अस्त्रकौशलेन॥ 5-16-14 पतत्त्रिवरभोगिनामिव पतत्त्रिवरो गरुडः। भोगिनः सर्पाः॥ 5-16-19 द्रुतेन पलायितेन॥ 5-16-55 विशसने युद्धे॥ 5-16-66 मसारः इन्द्रनीलः। गल्वर्कः पद्मरागः॥ 5-16-16 षोडशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|